रक्तपद्मासनम् देवम् चतुर्बाहुसमन्वितम् I क्षत्रियम् रक्तवर्णन्च गोत्रम् काश्यप सम्भवम् II
सप्ताष्वर रथमारूढम् प्रचंडम् सर्वसिद्धिदम् I द्विभुजम् रक्तपद्मैश्च संयुक्तम् परमाद्भुतम् II
कलिंगदेशजम् देवम् मौलीमाणिक्य भूषणम् I त्रिनेत्रम् तेजसा पूर्णमुदयाचल संस्थितम् II
द्वादशांगुल-विस्तीर्णम् प्रवरम् घृतकौशीकम् I शिवाधिदैवम् पुरवास्यम् ब्रह्मप्रत्यधिदैवतम् II
क्लीं ऐं श्रीं ह्रीं सूर्याय नम:
===============================================================================
ॐ
शुक्लम् शुक्लाँबरधरम श्वेताबजस्थम् चतुर्भुजम् I हारकेयूरनुपुरैरमंडित तमसापहम् II
सुखदृश्यम् सुधायुक्त मात्रेयम् वैश्यजातिजम् I कलंकांकित सर्वांगम् केशपाशातिसुंदरम् II
मुकुटेमणिमाणिक्यै: शोभनियम् तू लोचनम् I योषित्प्रियम् महानंदम् यमुनाजलसँभवम् II
उमाधिदैवतम् देवमापप्रत्यधिदैवतम् II
ह्रीं ह्रीं हुँ सोमाय स्वाहा
===============================================================================
ॐ
मेषाधिरुढम् द्विभुजम् शक्तिचापधरम् मुदा I रक्तवर्णम् महातेजम् तेजस्वीनाम् समाकुलम् II
रक्तवर्ण परिधानम् नानालंकारसंयुतम् I रक्तांड्गम् धरणीपुत्रम् रक्तमाल्यानुलेपनम् II
हस्ते वाराहदशनम् पृष्ठे तूणसमन्वितम् I कटाक्षाद् भीतिजनकम् महामोहप्रदम् महत् II
महाचापधरम् देवम् महोग्रमुग्रविग्रहम् I स्कंदादिदैव सूर्यास्यम् क्षितिप्रत्यधिदैवतम् II
ह्रीं ॐ ऐं कुजाय स्वाहा ===============================================================================
ॐ
सुतप्तस्वर्णाभतनुं रोमराजिविराजितम् I द्विभुजम् स्वर्णदण्डदेव शरतचंद्रनिभाननम् II
चरणे रत्नमंजीरम कुमारं शुभलक्षणमं I स्वर्णयज्ञोपवीतंच पीतवस्त्रयुगावृतम् II
अत्रीगोत्रसमुत्पन्नम् वैश्यजातिं महाबलम् I मागधं महिमापूर्णम् द्विनेत्रम् द्विभुजम् शुभम् II
नारायणाधिदैवम् च विष्णुप्रत्यधिदैवतम् I चिन्तयेत् सोमतनयं सर्वाभिष्टफलप्रदम् II
ॐ क्लीं ॐ बुधाय स्वाहा
===============================================================================
ॐ
कनकरूचिरगौरम् चारुमूर्तिम् प्रसन्नम् I द्विभुजमपि सरजौ संदधानम् सुरेज्यं II
वसनयुगदधानम् पीतवस्त्रम् सुभद्रम् I सुरवरनरपुज्यम् अड्गिरोगोत्रयुक्तम् II
द्विजवतकुलजातं सिन्धुदेशप्रसिद्धम् I त्रिजगति गणश्रेष्ठ: आधिदैवं तदीयम् II
सकलगिरिनिहन्ता इन्द्र: प्रत्याधिदैवम् I ग्रहगणगुरुनाथम् तं भजे अभीषट सिद्धौ II
रं यं ह्रीं ऐं गुरुवे नम:
===============================================================================
ॐ
शुक्लाम्बरं शुक्लरूचिं सुदीप्तम् I तुषारकुन्देंदुद्युतिं चतुर्भुजम् II
इन्द्राधिदैवम् शचिप्रत्याधिदैवम् I वेदार्थविज्ञम् च कविं कवीनाम् II
भृगुगोत्रयुक्तं द्विजजातिमात्रम् I दितीन्द्रपूज्यम् खलुशुद्धीशान्तम् II
सर्वार्थसिद्धिप्रदमेव काव्यं I भजेsप्यहम् भोजकतोद्बवं भृगुं II
हुं हुं श्रीं श्रीं नं रं शुक्राय स्वाहा
===============================================================================
ॐ
सौरिं गृध्रगतातिकृष्णवपुषं कालग्निवत् संकुलम् संयुक्तं भुजपल्लवैरूपलसत्स्तम्भैशचतुर्भि: समैं: I
भीमं चोग्रमहाबलातिवपुषं बाधागणै संयुतं गोत्रम् काश्पजं सुराष्ट्रविभवम् कालग्निदैवम् शनिम् II
वस्त्रै: कृष्णमयैर्युतं तनुवरम् तं सूर्यसूनुं भजे II
ह्रीँ क्लीम् शनैश्चराय नम:
===============================================================================
ॐ
महिषस्थं कृष्णम् वदनमयविभुं कर्णनासाक्षिमात्रम् कारालास्यम् भीमं गदविभवयुतं श्यामवर्णं महोग्रं I
पैठीनं गोत्रयुक्तं रविशशीदमनं चाधीदैव यमोsपि सर्पप्रत्यधिदैवतम् मलयगीर्भावम् तं तमसं नमामि II
वं ऐं वं वं क्लीं तमसे स्वाहा ===============================================================================
ॐ
महोग्रं धूमाभं करचरणयुतं छिन्नशीर्षं सुदीप्तम् हस्ते वाणम् कृपाणम त्रिशिखशशीधृतं वेधस्तं प्रसन्नम् I
ब्रह्मा तस्याधिदैवम् सकलगतयुतं सर्पप्रत्यधिदैवम् धयायेत् केतुं विशालं सकलसुरनरे शान्तिदं पुष्टिदं च II
श्रीं श्रीं आं वं रं लं केतवे नम:
navagraha-mntrah-sadhu-sankuli