Thursday, 28 March 2013

॥ श्री पुष्पदंत कृत श्री शिवमहिम्नस्तोत्र ॥

महिम्नः पारं ते परमविदुषो यज्ञसदृशी स्तुतिर्ब्रह्मादीना मपि तदवसन्नास्त्वयि गिरः ।
अथावाच्यः सर्वः स्वमतिपरिणामधि गृणन् ममाप्येषः स्तोत्रे हर निरपवादः परिकरः ॥१॥

अतीतः पंथानं तव च महिमा वाड् मनसयो रतद्व्यावृत्यायं चकितमभिधत्ते श्रुतिरपि ।
स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥२॥

मधुस्फीता वाचः परमममृतं निर्मितवत स्तव ब्रह्मन्किं वा गपि सुरगुरोर्विस्मयपदम् ।
मम त्वेतां वाणीं गुणकथनपुण्येन भवतः पुनामीत्यर्थेस्मिन् पुरमथनबुद्धिर्व्यवसिता ॥३॥

तवैश्चर्यें यत्तद् जगदुदयरक्षाप्रलयकृत त्रयी वस्तु व्यस्तं तिसृषु गुणभिन्नासु तनुषु ।
अभव्यानामस्मिन् वरद रमणीयामरमणीं विहंतुं व्योक्रोशीं विदधत इहै के जडधियः ॥४॥

किमिहः किंकायः स खलु किमुपायस्त्रिभुवनं किमाधारो धाता सृजति किमुपादान इति च ॥
अतकर्यैश्वर्येत्वय्यनवसरदुःस्थो हतधियः कुतर्कोडयंकांश्चिन्मुखरयति मोहाय जगतः ॥५॥

अजन्मानो लोकाः किमवयवंवतोडपि जगता मधिष्ठातारं किं भवविधिरनादत्य भवति ॥
अनीशो वा कुर्याद भुवनजनने कः परिकरो यतो मंदास्त्वां प्रत्यमरवर संशेरत इमे ॥६॥

त्रयी सांख्यं योगः पशुपतिमतं वैष्णवमिति प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च ।
रुचीनां वैचित्र्या दजुकुटिलनानापथजुषां नृणामेको गम्य स्त्वमसि पयसामर्णव इव ॥७॥

महोक्षः खड्वांगं परशुरजिनं भस्म फणिनः कपालं चेतीय त्तव वरद तंत्रोपकरणम् ।
सुरास्तां तामृद्धिं दधति तु भव द्भ्रूप्रणिहितां नहि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ॥८॥

ध्रुवं कश्चित्सर्वं सकलमपरस्त्वद्ध्रुवमिदं परो ध्रोव्याध्रोव्ये जगति गदति व्यस्तविषये ।
समस्तेडप्येतस्मि न्पुरमथन तैर्विस्मित इव स्तुवंजिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ॥९॥

तवैश्वर्यं यत्ना द्यदुपरि विरिंचिर्हरिरधः परिच्छेतुं याता वनलमनलस्कंधवपुषः ।
ततो भक्तिश्रद्धा भरगुरुगृणद्भ्यां गिरिश यत् स्वयं तस्थे ताभ्यां तव किमनुवृत्तिने फलति ॥१०॥

अयत्नादापाद्य त्रिभुवनमवैरव्यतिकरं दशास्यो यद्बाहू नभृन रणकंडुपरवशान् ।
शिरःपद्मश्रेणी रचितचरणांभोरुहबलेः स्थिरायास्त्वद्भक्ते स्त्रिपुरहर विस्फूर्जितमिदम् ॥११॥

अमुष्य त्वत्सेवा समधिगतसारं भुजवनं बलात्कैलासेडपि त्वदधिवसतौ विक्रमयतः ।
अलभ्यापाताले डप्यलसचलितांगुष्ठशिरसि प्रतिष्ठा प्रत्वय्या सीद्ध्रुवमुपचितो मुह्यति खलः ॥१२॥

यदद्धिं सुत्राम्णो वरद परमोच्चैरपि सती मधश्चक्रे बाणः परिजनविधेयस्त्रिभुवनः ।
न तच्चित्रं तस्मिंन्वरिवसितरि त्वच्चरणयो र्न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः ॥१३॥

अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा विधेयस्यासीद्यस्त्रिनयविषं संह्रतवतः ।
स कल्माषः कण्ठे तव न कुरुते न श्रियमहो विकारोडपि श्लाध्यो भुवनभयभंगव्यसनिनः ॥१४॥

असिद्धार्था नैव कवचिदपि सदेवासुरनरे निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः ।
स पश्यन्नीश त्वामितरसरुरसाधारणमभूत् स्मरः स्मर्तव्यात्मा नहि वशिषु पथ्यः परिभवः ॥१५॥

मही पादाधाताद् व्रजति सहसा संशयपदं पदं विष्णोर्भ्राम्यद्भुजपरिघरुग्णग्रहगणम् ।
मुहुद्यौंर्दोस्थ्यं यात्यनिभृतजटाताडिततटा जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ॥१६॥

वियद्व्यापी तारागणगुणितफेनोद्गमरुचिः प्रवाहो वारां यः पृषतलघुदष्टः शिरसि ते ।
जगद् द्वीपाकारं जलधिवलयं तेन कृतमि त्यनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः ॥१७॥

रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो रथाडगे चन्द्रार्कौ रथचरणपाणिः शर इति ।
दिधक्षोस्ते कोडयं त्रिपुरतृणमाडम्बरविधिर् विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ॥१८॥

हरिस्ते साहस्त्रं कमलबलिमाधाय पदयो यदिकोने तस्मिन् निजमुदहरन्नेत्रकमलम् ।
गतो भकत्युद्रेकः परिणतिमसौ चक्रवपुषा त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥१९॥

क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमतां क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते ।
अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदानप्रतिभुवं श्रुतौ श्रद्धां बद्ध्वा दटपरिकरः कर्मसु जनः ॥२०॥

क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृता मृषीणामार्त्विज्यं शरणद सदस्याः सुरगणाः ।
क्रतुभ्रंषस्त्वत्तः क्रतुफलविधानव्यसनिनो ध्रुवं कर्तुः श्रद्धाविधुरमभिचाराय हि मखाः ॥२१॥

प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा ।
धनुष्पाणेर्यातं दिवमपि सपत्राकृतंममुं त्रसन्तं तेडद्यापि त्यजति न मृगव्याधरभसः ॥२२॥

स्वलावण्याशंसाधृतधनुषमह्नाय तृणवत् पुरः प्लुष्टं दष्टवा पुरमथन पुष्पायुधमपि ।
यदि स्त्रैणं देवी यमनिरत देहार्धघटना दवैति त्वामद्धा बत वरद मुग्धा युवतयः ॥२३॥

स्मशानेष्वाक्रीडा स्महर पिशाचाः सहचरा श्चिताभस्मालेपः स्तगपि नृकरोटीपरिकरः ।
अमंगल्यं शीलं तव भवतु नामैवमखिलं तथाडपि स्मर्तृणां वरद परमं मंगलमसि ॥२४॥

मनः प्रत्यक्चित्ते सविधमवधायात्तमरुतः प्रह्रष्यद्रोमाणः प्रमदसलिलोत्संगितदशः ।
यदालोक्याह्लादं ह्रद इव निमज्ज्यामृतमये दद्यत्यंतस्तत्त्वं क्रिमपि यमिनस्तत्किल भवान् ॥२५॥

त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च ।
परिच्छिन्नामेवं त्वयिपरिणता बिभ्रतु गिरं न विद्मस्तत्तत्वं वयमिह तु यत्त्वं न भवसि ॥२६॥

त्रयीं तिस्त्रो वृत्तीस्त्रिभुवनमथोत्रीनपिसुरा नकाराद्यैर्वर्णै स्त्रिभिरभिदधत्तीर्ण विकृतिः ।
तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः समस्तं व्यस्तं त्वां शरणद गृणात्योमिति पदम् ॥२७॥

भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहां स्तथां भीमशानाविति यदभिधानाष्टकमिदम् ।
अमुष्मिन्प्रत्येकं प्रवितरति देव श्रुतिरपि प्रियायास्मै धाम्ने प्रणिहितनमस्योडस्मि भवते ॥२८॥

नमो नेदिष्ठाय प्रियदवदविष्ठाय च नमो नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः ।
नमोवर्षिष्ठाय त्रिनयन यविष्ठा च नमः नमः सर्वस्मै ते तदिदमितिशर्वाय च नमः ॥२९॥

बहलरजसे विश्वोत्पत्तौ भवाय नमो नमः प्रबलतमसे तत्संहारे हराय नमो नमः ।
जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः ॥३०॥

कृशपरिणति चेतः क्लेशवश्यं क्व चेदं क्व च तव गुणसीमोल्लंधिनी शश्वद्रद्धिः
इति चकितममन्दीकृत्य मां भक्तिराधाद् वरद चरणयोस्ते वाक्य-पुष्पोपहारम् ॥३१॥

असितगिरिसमंस्यात् कज्जलं सिंधुपात्रे सुरतरुवरशाखा लेखिनी पत्रमुर्वि ।
लिखति यदि गृहीत्वा शारदा सर्वकालं तदपि तव गुणाना मीश पारं न याति ॥३२॥

असुरसुरमुनीन्द्रैरर्चितस्येन्दुमौले र्ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य ।
सकलगणवरिष्ठः पुष्पदन्ताभिधानो रुचिरमलधुवृत्तैः स्तोत्रमेतच्चकार ॥३३॥

अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत् पठति परमभक्त्या शुद्धचित्तः पुमान्यः ।
स भवति शिवलोके रुद्रतुल्यस्तथाडत्र प्रचुरतरधनायुः पुत्रवान्कीर्तिमांश्च ॥३४॥

महेशान्नापरो देवो महिम्नो नापरा स्तुतिः । अघोरान्नापरो मंत्रो नास्ति तत्त्वं गुरोः परम् ॥३५॥

दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः । महिम्नस्तवपाठस्य कलां नार्हन्ति षोडशीम् ॥३६॥

कुसुमदशननामा सर्वगन्धर्वराजः शिशुशशिधरमौलेर्देव देवस्य दासः ।
स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात् स्तवनमिदमकार्षीद् दिव्यदिव्यं महिम्नः ॥३७॥

सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं पठति यदि मनुष्यः प्रांजलिर्नान्यचेताः ।
व्रजति शिवसमीपं किन्नरैः स्तूयमानः स्तवनमिदममोघं पुष्पदन्तप्रणीतम् ॥३८॥

आसमाप्तमिदं स्तोत्रं पुण्यं गंधर्वभाषितम् । अनौपम्यं मनोहारिशिवमीश्वरवर्णनम् ॥३९॥

इत्येषा वाडमयी पूजा श्रीमच्छंकरपादयोः । अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ॥४०॥

तव तत्त्वं न जानामि कीद्शोडसि महेश्वर । याद्सोडसि महादेव ताद्शाय नमो नमः ॥४१॥

एककालं द्विकालं वा त्रिकालं यः पठेन्नरः । सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥४२॥

श्री पुष्पदंतमुखपंकजनिर्गतेन स्तोत्रेंण किल्बिहरेण हरप्रियेण ।
कंठस्थितेन पठितेन समाहितेन सुप्रीणितो भवति भूतपतिर्महेशः ॥४३॥


Wednesday, 10 October 2012

प्राचीन वैदिक राष्ट्रगीत

ओम् आ ब्रह्मन ब्राह्मणो ब्रह्मवर्चसी जायताम
आस्मिन राष्टे राजन्यः इषव्:
शूरो महारथो जायताम्
दोग्ध्री धेनुर्वेढाऽनड्वानाशुः सप्ति:
पुरन्धिर्योषा जिष्णू रथेष्ठाः
सभेयो युवास्य यजमानस्य वीरो जायतां
निकामे निकामे नः पर्जन्यो वर्षतु
फलिन्यो न ओषधयः पच्यन्तां
योगक्षेमो नः कल्पताम्।

समानी व आकूति: समाना हृदयानि व:
समानमस्तु वो मनो यथा व: सुसहासति


अर्थात =
ब्रह्मन स्वराष्टृ में हों, द्विज ब्रह्म तेजधारी।
क्षत्रिय महारथी हों, शत्रुविनाशकारी।
होंवें दुधारु गौंएं, पशु अश्व आशुवाही।
आधार राष्टृ की हों नारी सुभग सदा ही।
बलवान सभ्य योद्धा, यजमानपुत्र होंवें।
इच्छानुसार वर्षें पर्जन्य ताप धोवें।
फल-फूल से लदी हों, औषध अमोघ सारी।
हो योगक्षेमकारी, स्वाधीनता हमारी।

सब लोगों का सव-तप, निश्चय और भाव अभिप्राय एक रहे।
सब लोगों के हृदय एक समान हों, तथा लोगों के मन
समान हों जिससे  लोगों का परस्पर कार्य हो सर्वत्र ।।।

Tuesday, 9 October 2012

नवग्रह ध्यान मंत्रा: - साधु संकुलि

रक्तपद्मासनम् देवम् चतुर्बाहुसमन्वितम् I  क्षत्रियम् रक्तवर्णन्च गोत्रम् काश्यप सम्भवम् II

सप्ताष्वर रथमारूढम् प्रचंडम् सर्वसिद्धिदम् I  द्विभुजम् रक्तपद्मैश्च संयुक्तम् परमाद्भुतम् II

कलिंगदेशजम् देवम् मौलीमाणिक्य भूषणम् I  त्रिनेत्रम् तेजसा पूर्णमुदयाचल संस्थितम् II

द्वादशांगुल-विस्तीर्णम् प्रवरम् घृतकौशीकम् I  शिवाधिदैवम् पुरवास्यम् ब्रह्मप्रत्यधिदैवतम् II


क्लीं  ऐं श्रीं ह्रीं सूर्याय नम:  

===============================================================================

ॐ 
शुक्लम् शुक्लाँबरधरम  श्वेताबजस्थम्  चतुर्भुजम् I  हारकेयूरनुपुरैरमंडित तमसापहम् II

सुखदृश्यम् सुधायुक्त मात्रेयम्  वैश्यजातिजम् I कलंकांकित सर्वांगम् केशपाशातिसुंदरम् II

मुकुटेमणिमाणिक्यै: शोभनियम् तू लोचनम् I योषित्प्रियम् महानंदम् यमुनाजलसँभवम् II

उमाधिदैवतम् देवमापप्रत्यधिदैवतम् II


ह्रीं ह्रीं हुँ सोमाय स्वाहा

===============================================================================

ॐ 
मेषाधिरुढम् द्विभुजम् शक्तिचापधरम् मुदा I  रक्तवर्णम् महातेजम् तेजस्वीनाम् समाकुलम् II

रक्तवर्ण परिधानम् नानालंकारसंयुतम् I  रक्तांड्गम् धरणीपुत्रम्  रक्तमाल्यानुलेपनम् II

हस्ते वाराहदशनम् पृष्ठे तूणसमन्वितम् I  कटाक्षाद् भीतिजनकम् महामोहप्रदम् महत् II

महाचापधरम् देवम् महोग्रमुग्रविग्रहम् I  स्कंदादिदैव  सूर्यास्यम् क्षितिप्रत्यधिदैवतम् II


ह्रीं ॐ ऐं कुजाय स्वाहा
===============================================================================

ॐ 
सुतप्तस्वर्णाभतनुं रोमराजिविराजितम् I  द्विभुजम् स्वर्णदण्डदेव शरतचंद्रनिभाननम् II 

चरणे रत्नमंजीरम कुमारं शुभलक्षणमं I  स्वर्णयज्ञोपवीतंच पीतवस्त्रयुगावृतम् II

अत्रीगोत्रसमुत्पन्नम् वैश्यजातिं महाबलम् I  मागधं महिमापूर्णम् द्विनेत्रम् द्विभुजम् शुभम् II

नारायणाधिदैवम् च  विष्णुप्रत्यधिदैवतम् I  चिन्तयेत् सोमतनयं सर्वाभिष्टफलप्रदम्  II


ॐ क्लीं ॐ बुधाय स्वाहा

===============================================================================

ॐ 
कनकरूचिरगौरम् चारुमूर्तिम् प्रसन्नम् I  द्विभुजमपि सरजौ संदधानम् सुरेज्यं II

वसनयुगदधानम् पीतवस्त्रम् सुभद्रम् I  सुरवरनरपुज्यम् अड्गिरोगोत्रयुक्तम् II

द्विजवतकुलजातं सिन्धुदेशप्रसिद्धम् I  त्रिजगति गणश्रेष्ठ: आधिदैवं तदीयम् II

सकलगिरिनिहन्ता इन्द्र: प्रत्याधिदैवम् I  ग्रहगणगुरुनाथम् तं भजे अभीषट सिद्धौ II


रं यं ह्रीं ऐं गुरुवे नम:

===============================================================================

ॐ 
शुक्लाम्बरं शुक्लरूचिं सुदीप्तम् I  तुषारकुन्देंदुद्युतिं चतुर्भुजम् II

इन्द्राधिदैवम् शचिप्रत्याधिदैवम् I  वेदार्थविज्ञम् च कविं कवीनाम् II

भृगुगोत्रयुक्तं द्विजजातिमात्रम् I  दितीन्द्रपूज्यम् खलुशुद्धीशान्तम् II

सर्वार्थसिद्धिप्रदमेव काव्यं I  भजेsप्यहम् भोजकतोद्बवं भृगुं II


हुं हुं श्रीं श्रीं नं रं शुक्राय स्वाहा

===============================================================================


ॐ 
सौरिं गृध्रगतातिकृष्णवपुषं कालग्निवत् संकुलम्  संयुक्तं भुजपल्लवैरूपलसत्स्तम्भैशचतुर्भि: समैं: I

भीमं चोग्रमहाबलातिवपुषं बाधागणै संयुतं गोत्रम् काश्पजं सुराष्ट्रविभवम् कालग्निदैवम् शनिम् II

वस्त्रै: कृष्णमयैर्युतं तनुवरम् तं सूर्यसूनुं भजे II     


ह्रीँ क्लीम् शनैश्चराय नम:

===============================================================================

 
महिषस्थं कृष्णम् वदनमयविभुं कर्णनासाक्षिमात्रम् कारालास्यम् भीमं गदविभवयुतं श्यामवर्णं महोग्रं I

पैठीनं गोत्रयुक्तं रविशशीदमनं चाधीदैव यमोsपि सर्पप्रत्यधिदैवतम् मलयगीर्भावम् तं तमसं नमामि II


वं ऐं वं वं क्लीं  तमसे स्वाहा 
===============================================================================

 
महोग्रं धूमाभं करचरणयुतं छिन्नशीर्षं सुदीप्तम् हस्ते वाणम् कृपाणम त्रिशिखशशीधृतं वेधस्तं प्रसन्नम् I 

ब्रह्मा तस्याधिदैवम् सकलगतयुतं सर्पप्रत्यधिदैवम्  धयायेत् केतुं विशालं सकलसुरनरे शान्तिदं पुष्टिदं च II 


श्रीं श्रीं आं वं रं लं केतवे नम:  

navagraha-mntrah-sadhu-sankuli

Wednesday, 19 September 2012

II संकटनाशन स्तोत्र II

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्
भक्तावासं स्मरेनित्यम आयुष्कामार्थ सिध्दये ॥१॥

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्
तृतीयं कृष्णपिङगाक्षं गजवक्त्रं चतुर्थकम ॥२॥

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च
सप्तमं विघ्नराजेन्द्रं धुम्रवर्णं तथाषष्टम ॥३

नवमं भालचंद्रं च दशमं तु विनायकम्
एकादशं गणपतिं द्वादशं तु गजाननम ॥४॥

द्वादशेतानि नामानि त्रिसंध्यं य: पठेन्नर:
न च विघ्नभयं तस्य सर्वसिध्दीकर प्रभो ॥५॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम्
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम ॥६॥

जपेद्गणपतिस्तोत्रं षडभिर्मासे फलं लभेत्
संवत्सरेण सिध्दीं च लभते नात्र संशय: ॥७॥

अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा य: समर्पयेत
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत: ॥८॥


Wednesday, 29 August 2012

।। श्रीचण्डीध्वज स्तोत्रम् ।।

ॐ श्रीं नमो जगत्प्रतिष्ठायै देव्यै भूत्त्यै नमो नमः ।
परमानन्दरुपिण्यै नित्यायै सततं नमः ।। १ ।।

नमस्तेऽस्तु महादेवि परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। २ ।।

रक्ष मां शरण्ये देवि धन-धान्य-प्रदायिनि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। ३ ।।

नमस्तेऽस्तु महाकाली पर-ब्रह्म-स्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। ४ ।।

नमस्तेऽस्तु महालक्ष्मी परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। ५ ।।

नमस्तेऽस्तु महासरस्वती परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। ६ ।।

नमस्तेऽस्तु ब्राह्मी परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। ७ ।।

नमस्तेऽस्तु माहेश्वरी देवि परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। ८ ।।

नमस्तेऽस्तु च कौमारी परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। ९ ।।

नमस्ते वैष्णवी देवि परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। १० ।।

नमस्तेऽस्तु च वाराही परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। ११ ।।

नारसिंही नमस्तेऽस्तु परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। १२ ।।

नमो नमस्ते इन्द्राणी परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। १३ ।।

नमो नमस्ते चामुण्डे परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। १४ ।।

नमो नमस्ते नन्दायै परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। १५ ।।

रक्तदन्ते नमस्तेऽस्तु परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। १६ ।।

नमस्तेऽस्तु महादुर्गे परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। १७ ।।

शाकम्भरी नमस्तेऽस्तु परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। १८ ।।

शिवदूति नमस्तेऽस्तु परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। १९ ।।

नमस्ते भ्रामरी देवि परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। २० ।।

नमो नवग्रहरुपे परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। २१ ।।

नवकूट महादेवि परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। २२ ।।

स्वर्णपूर्णे नमस्तेऽस्तु परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। २३ ।।

श्रीसुन्दरी नमस्तेऽस्तु परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। २४ ।।

नमो भगवती देवि परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। २५ ।।

दिव्ययोगिनी नमस्ते परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। २६ ।।

नमस्तेऽस्तु महादेवि परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। २७ ।।

नमो नमस्ते सावित्री परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। २८ ।।

जयलक्ष्मी नमस्तेऽस्तु परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। २९ ।।

मोक्षलक्ष्मी नमस्तेऽस्तु परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। ३० ।।

चण्डीध्वजमिदं स्तोत्रं सर्वकामफलप्रदम् ।
राजते सर्वजन्तूनां वशीकरण साधनम् ।। ३२ ।।

।। श्रीचण्डीध्वज स्तोत्रम् ।।

Thursday, 26 July 2012

|| श्री शिव पंचाक्षर स्तोत्र ||


|| श्री शिव पंचाक्षर स्तोत्र ||


नागेंद्रहाराय त्रिलोचनाय भस्मांग रागाय महेश्वराय|
नित्याय शुद्धाय दिगंबराय तस्मे "न" काराय नमः शिवायः॥

मंदाकिनी सलिल चंदन चर्चिताय नंदीश्वर प्रमथनाथ महेश्वराय|
मंदारपुष्प बहुपुष्प सुपूजिताय तस्मे "म" काराय नमः शिवायः॥

शिवाय गौरी वदनाब्जवृंद सूर्याय दक्षाध्वरनाशकाय|
श्री नीलकंठाय वृषभद्धजाय तस्मै "शि" काराय नमः शिवायः॥

वषिष्ठ कुभोदव गौतमाय मुनींद्र देवार्चित शेखराय|
चंद्रार्क वैश्वानर लोचनाय तस्मै "व" काराय नमः शिवायः॥

यज्ञस्वरूपाय जटाधराय पिनाकस्ताय सनातनाय|
दिव्याय देवाय दिगंबराय तस्मै "य" काराय नमः शिवायः॥

पंचाक्षरमिदं पुण्यं यः पठेत शिव सन्निधौ|
शिवलोकं वाप्नोति शिवेन सह मोदते॥

||विष्णुषट्पदी ||

||विष्णुषट्पदी ||

अविनयमपनय विष्णो दमय मनः शमय विषयमृगतृष्णां |
भूतदयां विस्तारय तारय संसारसागरतः ||१||

दिव्यधुनीमकरन्दे परिमलपरिभोगसच्चिदानन्दे |
श्रीपतिपदारविन्दे भवभयखेदच्छिदे वन्दे ||२||

सत्यपि भेदापगमे नाथ तवाहं न मामकीनस्त्वं |
सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः ||३||

उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टे |
दृष्टे भवति प्रभवति न भवति किं भवतिरस्कारः ||४||

मत्स्यादिभिरवतारैरवतारवताऽवता सदा वसुधां |
परमेश्वर परिपाल्यो भवता भवतापभीतोऽहं ||५||

दामोदर गुणमन्दिर सुन्दरवदनारविन्द गोविन्द |
भवजलधिमथनमन्दर परमं दरमपनय त्वं मे ||६||

नारायण करुणामय शरणं करवाणि तावकौ चरणौ |
इति षट्पदी मदीये वदनसरोजे सदा वसतु ||७||

||इति श्रीमद् शङ्कराचार्यविरचितं विष्णुषट्पदीस्तोत्रं संपूर्णम् ||


Rudrabhishekam and Baby Monkey

This is true happening, and a very much personal experience. I am a conservative person and strongly believe in our ancient Vedic Civiliza...