Tuesday 9 October 2012

नवग्रह ध्यान मंत्रा: - साधु संकुलि

रक्तपद्मासनम् देवम् चतुर्बाहुसमन्वितम् I  क्षत्रियम् रक्तवर्णन्च गोत्रम् काश्यप सम्भवम् II

सप्ताष्वर रथमारूढम् प्रचंडम् सर्वसिद्धिदम् I  द्विभुजम् रक्तपद्मैश्च संयुक्तम् परमाद्भुतम् II

कलिंगदेशजम् देवम् मौलीमाणिक्य भूषणम् I  त्रिनेत्रम् तेजसा पूर्णमुदयाचल संस्थितम् II

द्वादशांगुल-विस्तीर्णम् प्रवरम् घृतकौशीकम् I  शिवाधिदैवम् पुरवास्यम् ब्रह्मप्रत्यधिदैवतम् II


क्लीं  ऐं श्रीं ह्रीं सूर्याय नम:  

===============================================================================

ॐ 
शुक्लम् शुक्लाँबरधरम  श्वेताबजस्थम्  चतुर्भुजम् I  हारकेयूरनुपुरैरमंडित तमसापहम् II

सुखदृश्यम् सुधायुक्त मात्रेयम्  वैश्यजातिजम् I कलंकांकित सर्वांगम् केशपाशातिसुंदरम् II

मुकुटेमणिमाणिक्यै: शोभनियम् तू लोचनम् I योषित्प्रियम् महानंदम् यमुनाजलसँभवम् II

उमाधिदैवतम् देवमापप्रत्यधिदैवतम् II


ह्रीं ह्रीं हुँ सोमाय स्वाहा

===============================================================================

ॐ 
मेषाधिरुढम् द्विभुजम् शक्तिचापधरम् मुदा I  रक्तवर्णम् महातेजम् तेजस्वीनाम् समाकुलम् II

रक्तवर्ण परिधानम् नानालंकारसंयुतम् I  रक्तांड्गम् धरणीपुत्रम्  रक्तमाल्यानुलेपनम् II

हस्ते वाराहदशनम् पृष्ठे तूणसमन्वितम् I  कटाक्षाद् भीतिजनकम् महामोहप्रदम् महत् II

महाचापधरम् देवम् महोग्रमुग्रविग्रहम् I  स्कंदादिदैव  सूर्यास्यम् क्षितिप्रत्यधिदैवतम् II


ह्रीं ॐ ऐं कुजाय स्वाहा
===============================================================================

ॐ 
सुतप्तस्वर्णाभतनुं रोमराजिविराजितम् I  द्विभुजम् स्वर्णदण्डदेव शरतचंद्रनिभाननम् II 

चरणे रत्नमंजीरम कुमारं शुभलक्षणमं I  स्वर्णयज्ञोपवीतंच पीतवस्त्रयुगावृतम् II

अत्रीगोत्रसमुत्पन्नम् वैश्यजातिं महाबलम् I  मागधं महिमापूर्णम् द्विनेत्रम् द्विभुजम् शुभम् II

नारायणाधिदैवम् च  विष्णुप्रत्यधिदैवतम् I  चिन्तयेत् सोमतनयं सर्वाभिष्टफलप्रदम्  II


ॐ क्लीं ॐ बुधाय स्वाहा

===============================================================================

ॐ 
कनकरूचिरगौरम् चारुमूर्तिम् प्रसन्नम् I  द्विभुजमपि सरजौ संदधानम् सुरेज्यं II

वसनयुगदधानम् पीतवस्त्रम् सुभद्रम् I  सुरवरनरपुज्यम् अड्गिरोगोत्रयुक्तम् II

द्विजवतकुलजातं सिन्धुदेशप्रसिद्धम् I  त्रिजगति गणश्रेष्ठ: आधिदैवं तदीयम् II

सकलगिरिनिहन्ता इन्द्र: प्रत्याधिदैवम् I  ग्रहगणगुरुनाथम् तं भजे अभीषट सिद्धौ II


रं यं ह्रीं ऐं गुरुवे नम:

===============================================================================

ॐ 
शुक्लाम्बरं शुक्लरूचिं सुदीप्तम् I  तुषारकुन्देंदुद्युतिं चतुर्भुजम् II

इन्द्राधिदैवम् शचिप्रत्याधिदैवम् I  वेदार्थविज्ञम् च कविं कवीनाम् II

भृगुगोत्रयुक्तं द्विजजातिमात्रम् I  दितीन्द्रपूज्यम् खलुशुद्धीशान्तम् II

सर्वार्थसिद्धिप्रदमेव काव्यं I  भजेsप्यहम् भोजकतोद्बवं भृगुं II


हुं हुं श्रीं श्रीं नं रं शुक्राय स्वाहा

===============================================================================


ॐ 
सौरिं गृध्रगतातिकृष्णवपुषं कालग्निवत् संकुलम्  संयुक्तं भुजपल्लवैरूपलसत्स्तम्भैशचतुर्भि: समैं: I

भीमं चोग्रमहाबलातिवपुषं बाधागणै संयुतं गोत्रम् काश्पजं सुराष्ट्रविभवम् कालग्निदैवम् शनिम् II

वस्त्रै: कृष्णमयैर्युतं तनुवरम् तं सूर्यसूनुं भजे II     


ह्रीँ क्लीम् शनैश्चराय नम:

===============================================================================

 
महिषस्थं कृष्णम् वदनमयविभुं कर्णनासाक्षिमात्रम् कारालास्यम् भीमं गदविभवयुतं श्यामवर्णं महोग्रं I

पैठीनं गोत्रयुक्तं रविशशीदमनं चाधीदैव यमोsपि सर्पप्रत्यधिदैवतम् मलयगीर्भावम् तं तमसं नमामि II


वं ऐं वं वं क्लीं  तमसे स्वाहा 
===============================================================================

 
महोग्रं धूमाभं करचरणयुतं छिन्नशीर्षं सुदीप्तम् हस्ते वाणम् कृपाणम त्रिशिखशशीधृतं वेधस्तं प्रसन्नम् I 

ब्रह्मा तस्याधिदैवम् सकलगतयुतं सर्पप्रत्यधिदैवम्  धयायेत् केतुं विशालं सकलसुरनरे शान्तिदं पुष्टिदं च II 


श्रीं श्रीं आं वं रं लं केतवे नम:  

navagraha-mntrah-sadhu-sankuli

No comments:

Post a Comment

Rudrabhishekam and Baby Monkey

This is true happening, and a very much personal experience. I am a conservative person and strongly believe in our ancient Vedic Civiliza...